वास्तुशास्त्रे भोजनकक्षस्य विचारः

वास्तुशास्त्रे भोजनकक्षस्य विचारः  

व्यूस : 1569 | अप्रैल 2017

भोजनं मनुष्यस्याधारभूतावश्यकता वर्तते। अन्नेन मनुष्यस्य जीवनं सम्भवमस्ति, सम्पूर्णचराचरजगतस्याधारः अन्नमेवास्ति, मनुष्यस्य प्राणाः अन्नादेव प्रभवन्ति, इत्यत्र नास्ति संशयः

1। भोजनेनैव मनुष्यस्य शरीरं संवर्धते, जीवनस्य नौका चाग्रे प्रचलति। भोजनकक्षस्य सम्बन्धः भोजनेन सह वर्तते, “आयुर्वेदे स्वास्थ्यस्य अङ्गत्रयमुक्तम्. १.आहारः २.निद्रा ३.ब्रह्मचर्यश्च एतेषु आहारस्य नाम सर्वप्रथमागतम् य यतोहि आहारेणैव शरीरस्य स्थितिरस्ति उक्त×च चरक संहितायाम्. सर्वमन्यत्परित्यज्य शरीरमनुपालयेत्। एवं विचार्य नरः प्रातः सायञ्च निश्चितसमये विधिपूर्वकं शान्तप्रसन्नचेतसा सम्यक् प्रकारेण चर्वनं कृत्वा भगवतः स्मरणं पूर्वकं भोजनं कुर्यात्

2 । भावप्रकाशग्रन्थेऽपि दोष-कालादिविचारपूर्वकं दिवसे वारद्वयं भोजनसेवनस्य निर्देशः कृतः यथा- यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम्। विचार्य दोषकालादीन्कालयो रुभयोरपि।

।3 एवं प्रकारेण भोजनस्य महिमा अतीवविस्तृता वर्तते, अत एव भोजनं कर्तुमपि समुचितस्थलस्य परिकल्पना वास्तुशास्त्रे वास्तुविदैः कृता। १ गृहे भोजनकक्षस्य स्थितिः भोजनार्थं प्राचीनकाले गृहस्य पश्चिमदिशास्थितप्रकोष्ठः प्रयुज्यते स्म। आध्ुनिके काले तु भोजनं पाकशालायाः समीपस्थप्राङ्गणे उत्पीठिकायां क्रियते। किन्तु वास्तुशास्त्रा न्तर्गतपश्चिमदिशास्थितकक्ष एव भोजनार्थमुपयुक्तं भवति। यतोहि पश्चिमदिशाधिपतेः वरुणस्य मुखमग्नितुल्यमिति ऋषिभिः ऋग्वेदे अभिमतम्।

4 अग्निश्च भोजनस्य जीर्णे कारण्म्, तस्मात् भोजनगृहं पश्चिमायां प्रशस्तम्। यद्यपि पश्चाद्व र्तिकाले वरुणस्य सम्बन्धः जलेन सह स्थापितः यस्मात् वरुणः नदी-समुद्रादीनां देवः स×जातः।

5 अयमेव कारणं यत् आधुनिकाः वास्तुविदाः पश्चिमदिशि अपि जलव्यवस्थां समर्थयन्ति।

6 आयुर्वेदे आचार्येणोक्तं यत् भोजनं सर्वदा एकान्तस्थले एव कर्तव्यम्।

7 गृहे भोजनकक्षस्य परिकल्पितचित्रम् - २. भोजनकक्षे उपवेशने दिशाविचारः मनुस्मृतौ पूर्वाभिमुखं भूत्वा भोजनग्रहणेन आयुर्वृद्धिः, दक्षिणाभिमुखं भोजनग्रहणेन यश वृद्धिः, पश्चिमाभिमुखं भोजनग्रहणेन श्रीवृद्धिः, उत्तराभिमुखं भोजनस्य ग्रहण् ोन च सत्यफलस्य वृद्धिर्भवति।

8 एवं स्मृतिवचनानुसारं दक्षिणाभिमुखं भोजनस्य फलं शुभफलप्रदमुक्तम्, किन्तु लोकव्यवहारे तु दक्षिणाभिमुखं भोजनस्य निषेधः कृतः। उक्तञ्च - “यद्यपि शुद्धं लोकविरुद्धं न करणीयं न करणीयम्।। यतोहि दक्षिणाभिमुखं भोजनस्य ग्रहणेन प्रेतत्वं प्राप्यते, तथा च पश्चिमाभिमुखं भोजनस्य ग्रहणपि अशुभमेव भवति। यथा - प्राच्यां नरो लभेदायुर्याम्यां प्रेतत्वमश्नुते। वारुणे च भवेद्रोगी आयुर्वित्तं तथोत्तरे।।

9 अत एव दक्षिणाभिमुखं भूत्वा कदापि भोजनं न कर्तव्यम्, किन्तु पश्चिमाभिमुखं भूत्वा कदाचित् स्थानबाध्यतायां भोजनं कर्तुं शक्यते। तथापि पूर्वाभिमुखमुत्तराभिमुखञ्च भोजनग्रहणेन नास्ति काचित् हानिः, अस्मात् कारणात् अनयोः दिशयोः मुखं कृत्वा भोजनग्रहणं सर्वोत्तमं श्रेष्ठञ्च वर्तते। ३. भोजनकक्षे शुद्धतायाः पवित्रतायाश्च अनिवार्यता उत्तमस्वास्थ्यस्य कृते यथा पाकशालायां शुद्धता पवित्रता च अपरिहार्या तथैव भोजनकक्षेऽपि शुद्धतायाः पवित्रतायाश्च उपस्थिति अत्यावश्यकी । (क). शुद्धता- भोजनकक्षे शुद्धतया अभिप्रायः अकलुषित -निर्दोष - निष्कलंक- विशुद्धवातावरणेन वर्तते। शुद्धतायाः अवलोकनं अस्माभिः नेत्राभ्यां कर्तुं शक्यते। (ख). पवित्रता- भोजनकक्षे पवित्रतया अभिप्रायः निष्पाप-पावन-पुनीतादिभिः वर्तते। यत्र पवित्रता भवति तत्र शुद्धता तु भवत्येव, किन्तु यत्र शुद्धता भवति तत्र पवित्रता नापि भवितुमर्हति। पवित्रतायाः अवलोकनमस्माभिः नेत्राभ्यां कर्तुं न शक्यते। शुद्धता पवित्रता च यत्र भवति, तत्रत्यः वातावरणं शुद्धं भवति। शुद्धवातावरणे कृतभोजनञ्च स्वास्थ्याय उत्तमं निरोगञ्च भवति।

10 ४. भोजनकक्षस्य आन्तरिक व्यवस्था भोजनकक्षस्य आन्तरिक व्यवस्थायां केचन् महत्त्वपूर्णांशेषु धयानमवश्यमेव दातव्यम्। यथा - - अद्यत्वे भोजनार्थं उत्पीठिकायाः आसन्दिकानाञ्च प्रयोगो भवति, अत एव उपरोक्त प्रकारेण व्यवस्था कर्तव्या, येन भोजनकर्ता दक्षिणाभिमुखं न उपविशेत् भोजनकक्षे भारयुक्तवस्तूनां कृते ‘अलमीरा’ निर्माणं दक्षिणस्यां पूर्वस्यां वा कर्तव्यम् , तत्र पात्रादीनां सज्जीकरणं कर्तुं शक्यते। - अग्रे प्रदर्शितचित्रानुसारं जलव्यवस्था भोजनकक्षस्य ईशानकोणे समीचीनं भवितुमर्हति। - भोजनं कदापि गगनमण्डलस्याधः न कर्तव्यः, एतदर्थं छदिः अत्यावश्यकी वर्तते। अत एव भोजनं भोजनकक्षे अथवा छदियुक्तमण्डलस्याधः एव कर्तव्यः।

11 - भोजनं सर्वदा मौनावस्थायामेव कर्तव्यम्, प्राचीनकाले अनेके जनाः मौनपूर्वकं भोजनं कुर्वन्ति स्म। मौनावस्थायां कृतभोजनस्य महत्त्वमधिकं भवति, मौनं भूत्वा कृतं भोजनमानन्दं जनयति सुखेन च पचति। अनेन वातरोगस्य सम्भावना अपि न्यूना भवति। शास्त्रोक्तप्रकारेण षट्सु कर्मषु मौनाचरणमत्यावश्यकं भवति, एतेषु भोजनकालेऽपि

12 मौनाचरणं निर्दिष्टम्। भारतवर्षे सम्प्रति जनसंख्यायाः घनत्वमत्यध् िाकं जातम्। भवननिर्माणार्थं भूभागस्य न्यूनतायां सामान्यवर्गस्य कृते भोजनकक्षस्य भिन्नरूपेण व्यवस्था कर्तुं न शक्यते। तत्र एतैः मनुष्यैः स्वगृहे ड्राइंगकक्षस्य एकस्मिन् भागे पाकशाला समीपे एव भोजनग्रहणस्य व्यवस्था क्रियते। किन्तु येषां पार्श्वे भवननिर्माणार्थं पर्याप्तभूभागः तथा च धनस्य प्रचुरता न वर्तते, ते भिन्नरूपेण उपरोक्तनियमानुसारं भोजनकक्षस्य निर्माणं कर्तुं शक्नुवन्ति।

सन्दर्भग्रन्थसूची- Maha-Subhasita-Samgraha – By Ludwik Sternbach, LL.D., Vol.- 2, VVRI Hoshiarpur, First Edition-1976 2. निरोगधाम सम्पा.- रसवैद्य डॉ. प्रेमदत्त पाण्डेय, वसन्तऋतु अंक, जनवरी-२००८ इन्दौर 3. भावप्रकाशः(प्रथम-भागः) श्रीमद्भावमिश्रप्रणीत, व्याख्याकारः- श्री ब्रह्मशंकर मिश्र, चैखम्बा संस्कृत भवन वाराणसी, संस्करण, संवत्- २०६९ 4. मनुस्मृतिः डाॅ. श्रीमती उर्मिला रूस्तगी, जे. पी. पब्लिशिंग हाउस, २७/२८ शक्ति नगर, दिल्ली-७, संस्करण-२००२ 5. पद्मपुराणम्, संस्कृति संस्थान, बरेली, संस्करण - 1974 6. भारतीय वास्तुविद्या के वैज्ञानिक आधार, डाॅ. बिहारी लाल शर्मा, मान्यता प्रकाशन, नई दिल्ली-64, प्रथम संस्करण - 2004 7. शब्दकल्पद्रुमः, राजाराधकान्तदेवः, राष्ट्रियसंस्कृत संस्थानम्, नवदेहली, संस्करण - 1987

Ask a Question?

Some problems are too personal to share via a written consultation! No matter what kind of predicament it is that you face, the Talk to an Astrologer service at Future Point aims to get you out of all your misery at once.

SHARE YOUR PROBLEM, GET SOLUTIONS

  • Health

  • Family

  • Marriage

  • Career

  • Finance

  • Business

स्वास्थ्य और ज्योतिष  अप्रैल 2017

रिसर्च जर्नल के इस विशेषांक में बहंत ही अच्छे व रोचक ज्योतिषीय ओलख सम्मिलित किये गये हैं।

सब्सक्राइब


.